|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.101. अध्यायः 101
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति जलतिलभूम्यन्नगोदानादिफलकथनम्। 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह॥ 13-101-1(85488)
भीष्म उवाच। 13-101-2x(7094)
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि॥ 13-101-2(85489)
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते॥ 13-101-3(85490)
उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम्।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि॥ 13-101-4(85491)
युधिष्ठिर उवाच। 13-101-5x(7095)
यत्फलं तिलदाने च भूमिदाने च कीर्तितम्।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव॥ 13-101-5(85492)
भीष्म उवाच। 13-101-6x(7096)
शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम्।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम॥ 13-101-6(85493)
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते॥ 13-101-7(85494)
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति॥ 13-101-8(85495)
सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन्।
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन॥ 13-101-9(85496)
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः।
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो 13-101-10(85497)
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते॥ 13-101-11(85498)
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा।
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः॥ 13-101-12(85499)
तिलहोमरता विप्राः सर्वे संयतमैथुनाः।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः॥ 13-101-13(85500)
सर्वेषामिति दानानां तिलदानं विशिष्यते।
अक्षयं सर्वदानानां तिलदानमिहोच्यते॥ 13-101-14(85501)
उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः।
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्॥ 13-101-15(85502)
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्।
विधानं येन विधिना तिलानामिह शस्यते॥ 13-101-16(85503)
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्।
समागमे महाराज ब्रह्मणा वै स्वयंभुवा॥ 13-101-17(85504)
देवाः समेत्य ब्रह्माणं भूमिभागे यियश्रवः।
शुभं देशमयाचन्त यजेम इति पार्थिव॥ 13-101-18(85505)
देवा ऊचुः। 13-101-19x(7097)
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च।
यजेम हि महाभाग यज्ञं भवदनुज्ञया॥ 13-101-19(85506)
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते।
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च।
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि॥ 13-101-20(85507)
ब्रह्मोवाच। 13-101-21x(7098)
ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः।
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः॥ 13-101-21(85508)
दैवा ऊचुः। 13-101-22x(7099)
भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः।
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा॥ 13-101-22(85509)
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः।
असितो देवलश्चैव देवयज्ञमुपागमन्॥ 13-101-23(85510)
ततो देवा महात्मान ईजिरे यज्ञमच्युतम्।
तथा समापयामासुर्यथाकालं सुरर्षभाः॥ 13-101-24(85511)
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे।
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे। 13-101-25(85512)
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्।
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते॥ 13-101-26(85513)
शीतवातातपसहां यागभूमिं सुसंस्कृताम्।
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते॥ 13-101-27(85514)
मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव।
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते॥ 13-101-28(85515)
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः।
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते॥ 13-101-29(85516)
तथा गवार्थे शरणं शीतवर्षसहं दृढम्।
आसप्तमं तारयति कुलं भरतसत्तम॥ 13-101-30(85517)
क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात्।
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत्॥ 13-101-31(85518)
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन।
न श्मशानपरीतां च न च पापनिषेविताम्॥ 13-101-32(85519)
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः।
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते॥ 13-101-33(85520)
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः।
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः॥ 13-101-34(85521)
अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च।
सर्वाण्यस्वामिकान्याद्दुर्न हि तत्र परिग्रहः॥ 13-101-35(85522)
इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते।
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ॥ 13-101-36(85523)
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च।
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः॥ 13-101-37(85524)
ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत।
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्॥ 13-101-38(85525)
पयसा हविषा दध्ना शकृता चाथ चर्मणा।
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत॥ 13-101-39(85526)
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते।
न वर्षविषयं वाऽपि दुःखमासां भवत्युत॥ 13-101-40(85527)
ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम्।
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः॥ 13-101-41(85528)
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः।
अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता।
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः॥ 13-101-42(85529)
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव॥ 13-101-43(85530)
गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते।
सर्वत्र विजयं चापि लभते मनुजाधिप॥ 13-101-44(85531)
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः।
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति॥ 13-101-45(85532)
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः।
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति॥ 13-101-46(85533)
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते॥ 13-101-47(85534)
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति॥ 13-101-48(85535)
गावः शरण्या भूतानामिति वेदविदो विदुः।
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति॥ 13-101-49(85536)
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके।
गोजीविने न दातव्या तथा गौर्भरतर्षभ।
`गोरसानां न विक्रेतू रसं च यजनस्य च॥' 13-101-50(85537)
ददत्स तादृशानां वै नरो गां पापकर्मणाम्।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः॥ 13-101-51(85538)
न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा।
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै॥ 13-101-52(85539)
दशगोसहस्रदः सम्यक् शक्रेण सह मोदते।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः॥ 13-101-53(85540)
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत॥ 13-101-54(85541)
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः॥ 13-101-55(85542)
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप।
स्वायंभुवं महात्स्थानं स गच्छति नराधिप॥ 13-101-56(85543)
न हिरण्यैर्न वासोभिर्नान्यदानेन भारत।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो॥ 13-101-57(85544)
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा॥ 13-101-58(85545)
सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः॥ 13-101-59(85546)
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवतः॥ 13-101-60(85547)
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते॥ 13-101-61(85548)
अभुक्त्वाऽतिथेये चान्नं प्रयच्छेद्यः समाहितः।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ॥ 13-101-62(85549)
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्।
पापं तरति चैवेह दुष्कृतं चापकर्षति॥ 13-101-63(85550)
इत्येतदन्नदानस्य तिलदानस्य चैव ह।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम्॥ ॥ 13-101-64(85551)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकशततमोऽध्यायः॥ 101 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-101-7 वै पुण्यं पितृलोके महीयते इति ध.पाठः॥ 7-101-9 सर्वकामैश्च जयति यस्तिलैरिति नच कामेन दातव्यमिति च ध.पाठः॥ 7-101-22 इमं हिमवत्सन्निहितम्॥ 7-101-27 प्रतिश्रयो वासार्थं स्थलम्॥ 7-101-33 तद्भूमिं परकीयां भूमिं वा यो निर्वपेत् पितृभिः पितृभ्यो दद्यात्तर्हि तच्छ्राद्धं तद्भूमिदानाख्यं कर्म चोभयं विहन्यते वृथा भवति॥ 7-101-34 तस्यां क्रीतायाम्॥ 7-101-46 आकुञ्चितमपि ह्येतद्धव्यं वेदविदो विदुरिति ध.पाठः॥ 7-101-56 स्वयंभुवं महाभागं स पश्यति नराधिपेति ध.पाठः॥ 7-101-58 अन्नं वै परमं दैवमिति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|